मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् ९

संहिता

भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंऽहो॒मुचं॑ सु॒कृतं॒ दैव्यं॒ जन॑म् ।
अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ॥

पदपाठः

भरे॑षु । इन्द्र॑म् । सु॒ऽहव॑म् । ह॒वा॒म॒हे॒ । अं॒हः॒ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् ।
अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । सा॒तये॑ । भग॑म् । द्यावा॑पृथि॒वी इति॑ । म॒रुतः॑ । स्व॒स्तये॑ ॥

सायणभाष्यम्

अंहोमुचमंहसः पापस्य मोचकं सुहवं शोभनाह्वानमिन्द्रं भरेषु। भृणन्ति भर्जयन्ति विनाशयन्ति शत्रूनत्रेति भराः सङ्ग्रामाः। तेषु हवामहे। रक्षणायाह्वयामः। किञ्च सुकृतम् सुकर्माणं दैव्यं देवसम्बन्धिनमन्यं जनं चाह्वयामहे। तं जनमुद्दिशति। अग्निं मित्रं वरुणं भगं भजनीयमेतन्नामनं देवं द्यावापृथिवी द्यावापृथिव्यौ मरुतश्च सातयेऽन्नलाभाय स्वस्तयेऽविनाशाय रक्षणायाह्वयामहे॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः