मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १०

संहिता

सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हसं॑ सु॒शर्मा॑ण॒मदि॑तिं सु॒प्रणी॑तिम् ।
दैवीं॒ नावं॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ॥

पदपाठः

सु॒ऽत्रामा॑णम् । पृ॒थि॒वीम् । द्याम् । अ॒ने॒हस॑म् । सु॒ऽशर्मा॑णम् । अदि॑तिम् । सु॒ऽप्रनी॑तिम् ।
दैवी॑म् । नाव॑म् । सु॒ऽअ॒रि॒त्राम् । अना॑गसम् । अस्र॑वन्तीम् । आ । रु॒हे॒म॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

अदितिदेवताकस्य पशॊः सुत्रामाणमित्येषा वपायागस्य याज्या। सुत्रितं च। अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् । आ. ३-८। इति। प्रायणीयेष्टावादित्यस्य हविष एषैवानुवाक्या सैवोदयनीयाया याज्या। सूत्रितं च। सुत्रामाणं पृथिवीं द्यामनेहसं महीमू षु मातरं सुव्रतानाम् । आ. ४-३। इति। प्रयाणेऽनयैव नावमारोहेत्। सूत्रितं च। सुत्रामाणं पृथिवीं द्यामनेहसमिति नावम् । आ. गृ. २-६-८। इति॥

द्युलोको नौकरूपकतया स्तूयते। सुत्रामाणं सुष्ठु त्रायन्तीं पृथिवीं विस्तृतामनेहसं पापरहितां सुशर्माणं शोभनसुखयुक्तामदितिमदीनां सुप्रणीतिं सुप्रणयनां सुष्थु प्रणेत्री दैवीं देवसंबन्धिनीं स्वरित्रां शोभनारित्रां जलाहरणशीलदारुयुक्तामनागसस्ं पापरहितामस्रवन्तीमगच्छन्तीमविनश्वरीं नावं नावमिव स्थितां द्यां स्वस्तयेऽविनाशाय देवत्वप्राप्तय आ रुहेम। वयमारोहेम। रोहतेर्लिङि लिङ्याशिष्यङ्गित्यङ् प्रत्ययः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः