विश्वे॑ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा॑या अभि॒ह्रुतः॑ ।
स॒त्यया॑ वो दे॒वहू॑त्या हुवेम शृण्व॒तो दे॑वा॒ अव॑से स्व॒स्तये॑ ॥
विश्वे॑ । य॒ज॒त्राः॒ । अधि॑ । वो॒च॒त॒ । ऊ॒तये॑ । त्राय॑ध्वम् । नः॒ । दुः॒ऽएवा॑याः । अ॒भि॒ऽह्रुतः॑ ।
स॒त्यया॑ । वः॒ । दे॒वऽहू॑त्या । हु॒वे॒म॒ । शृ॒ण्व॒तः । दे॒वाः॒ । अव॑से । स्व॒स्तये॑ ॥
हे यजत्रा यजनीया हे विश्वे सर्वे देवाः यूयमूतये रक्षणार्थमधि वोचत। अस्मानधिब्रूत। आभाष्य चाभिह्रुतोऽभिहिंसित्र्या दुरेवाया दुर्गतेर्नोऽस्मांस्त्रात्रायुध्वम् । यद्येवं कुरुथ तर्हि हे देवाः शृण्वतः स्तोत्राण्यस्माभिरुक्तानि तादृशान्वो युष्मान् सत्यया यथार्थभुतया देवहूत्या। देवाह्यन्तेऽनयेति देवहूतिः स्तुतिः। तया वयं हुवेम। आह्वयेम। किमर्थम् । अवसे रक्षणाय शत्रुभ्यः स्वस्तये क्षेमाय जीवनाभिवृद्धये च॥११॥