मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६३, ऋक् १६

संहिता

स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ ।
सा नो॑ अ॒मा सो अर॑णे॒ नि पा॑तु स्वावे॒शा भ॑वतु दे॒वगो॑पा ॥

पदपाठः

स्व॒स्तिः । इत् । हि । प्रऽप॑थे । श्रेष्ठा॑ । रेक्ण॑स्वती । अ॒भि । या । वा॒मम् । एति॑ ।
सा । नः॒ । अ॒मा । सो इति॑ । अर॑णे । नि । पा॒तु॒ । सु॒ऽआ॒वे॒शा । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

सायणभाष्यम्

या पृथिवी गन्तुमुद्युक्तानां प्रपथे प्रकृष्टाय मार्गाय स्वस्तिरित् क्षेमकारिण्येव भवति श्रेष्ठा प्रशस्यतमा रेक्णस्वतिधनवती या पृथिवी वामं वननीयं यज्ञमभ्येति उत्तरवेद्यात्मना वाभिप्राप्नोति सा पृथिवी नोऽस्माकममा। गृहनामैतत्। गृहं रक्षतु। तथा सो सा उ सैवाअरणे गन्तव्ये देशेऽरणेऽरमणेऽरण्यादिके देशे वा नोऽस्मान्निपातु। नितरां रक्ष्तु। तथा देवगोपा देवा गोपायितारो यस्याः सन्ति सा पृथिव्यन्स्माकं स्वावेशा शोभननिवासा भवतु॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः