मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् २

संहिता

क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ ।
न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥

पदपाठः

क्र॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ ।
न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥

सायणभाष्यम्

हृत्सु हृदयेशु धितयो निधातव्या निहिताः क्रतवः प्रज्ञाः क्रतूयन्ति। अग्निहोत्रादिकर्म कर्त्रुमिच्छन्ति। तदेवाह। वेनाः कान्ताः प्रज्ञा वेनन्ति। देवान्कामयन्ते। वेनो वेनतेः शान्तिकर्मण इति यास्कः। नि. १०-३८। तथा दिशोऽस्माभिर्निदिश्यमानाः प्रेर्यमाणाः कामा आ पतयन्ति। देवान्फलावाप्तय आगच्छन्ति। यत एभ्यो देवेभ्योऽन्यो देव एषां कामानां मर्डिता सुखयिता न विद्यते। किं बहुना। देवेष्वधि। अधिशब्दः सप्तम्यर्थद्योतकः। इन्द्रादिषु देवेषु मे मदीयाः कामा अयंसत। नियम्यन्ते। यच्छतेः कर्मणि लुङि रूपम्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः