मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ३

संहिता

नरा॑ वा॒ शंसं॑ पू॒षण॒मगो॑ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा ।
सूर्या॒मासा॑ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना॑ ॥

पदपाठः

नरा॒शंस॑म् । वा॒ । पू॒षण॑म् । अगो॑ह्यम् । अ॒ग्निम् । दे॒वऽइ॑द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।
सूर्या॒मासा॑ । च॒न्द्रम॑सा । य॒मम् । दि॒वि । त्रि॒तम् । वात॑म् । उ॒षस॑म् । अ॒क्तुम् । अ॒श्विना॑ ॥

सायणभाष्यम्

ऋषिः स्वात्मानं सम्बोध्याह। नराशंसम्। उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम्। संहितायां विप्रकर्षश्छान्दसः। नरैः शंसनीयमेतन्नामानं पूषणं स्तोतॄणाम् धनदानेन पॊशकमेतन्नामानं तथागोह्यमगूहितमन्यैर्गन्तुमशक्यं देवेद्धं वामदेवादिभिरृषिभिर्दीपितमग्निं च गिरा स्तुत्याभ्यर्चसे। अभिष्टुहि। तथा सुर्यमासा चन्द्रमसा। मा इति चन्द्रमसो विशेशनम् । माति पक्शमिति माश्चन्द्रमाः। तौ सूर्याचन्द्रमसौ दिवि द्युलोके स्थितं यमम् च त्रितं त्रिषुलोकेषु ततं स्वमहिम्ना विस्तृतं त्रिस्थानं वा तमिन्द्रं वातं वायुमुशसमुषः कालमक्तुम् रात्रिमश्विनाश्विनौ चैतान्देवांस्तत्तल्लिङ्गैः स्तोत्रैरभिष्टुहि॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः