मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ४

संहिता

क॒था क॒विस्तु॑वी॒रवा॒न्कया॑ गि॒रा बृह॒स्पति॑र्वावृधते सुवृ॒क्तिभि॑ः ।
अ॒ज एक॑पात्सु॒हवे॑भि॒रृक्व॑भि॒रहि॑ः शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ॥

पदपाठः

क॒था । क॒विः । तु॒वि॒ऽरवा॑न् । कया॑ । गि॒रा । बृह॒स्पतिः॑ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्तिऽभिः॑ ।
अ॒जः । एक॑ऽपात् । सु॒ऽहवे॑भिः । ऋक्व॑ऽभिः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ॥

सायणभाष्यम्

कविः कान्तप्रज्ञोऽग्निः कथा कथं केन प्रकारेण तुवीरवान्बहुस्तॊत्रयुक्तो भवति। मत्वर्थीयप्रत्ययावृत्तिः। यद्वा। तुविशब्दस्य रो मत्वर्थीयः। बाहुल्य युक्तदेवैः सहितो भवति। कया वा गिरा स्तुत्या बहुमान्भवति। बृहस्पतिरेतन्नामको देवः सुवृक्तिभिः शोभनाभिः स्तुतिभिस्तथा वावृधते। तथैकपात्। एकोऽसहाय एव पतति गच्छतीत्येकपात् तादृशो दिवो धारयिताज एतन्नामको देवश्च सुहवेभिः शोभनह्वानैरृक्वभिर्मन्त्रवद्भिः स्तोत्रैर्वावृधते। एते त्रयो देवा वर्धन्ते। त्रित्वापेक्षया बहुवचनम् । वृधु वृद्धौ। व्यत्ययेन शपः श्लुः। अहिर्बुध्न्यश्चैतन्नामको देवश्च हवीमन्याह्वानेऽस्माञ्छृणोतु॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः