मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ६

संहिता

ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ताविव॒ त्मना॑ म॒हो ये धनं॑ समि॒थेषु॑ जभ्रि॒रे ॥

पदपाठः

ते । नः॒ । अर्व॑न्तः । ह॒व॒न॒ऽश्रुतः॑ । हव॑म् । विश्वे॑ । शृ॒ण्व॒न्तु॒ । वा॒जिनः॑ । मि॒तऽद्र॑वः ।
स॒ह॒स्र॒ऽसाः । मे॒धसा॑तौऽइव । त्मना॑ । म॒हः । ये । धन॑म् । स॒म्ऽइ॒थेषु॑ । ज॒भ्रि॒रे ॥

सायणभाष्यम्

हवन श्रुत आह्वानं शृण्वन्तो वाजिनो बलवन्तो मितद्रवोः मितमार्गा अध्वानं परिच्छिन्दन्तो विश्वे सर्वे प्रसिद्धा अर्वन्तोऽश्वा इन्द्रादीनां वाहनभुता हर्यादयो नोऽस्माकं हवमाह्वानं शृण्वन्तु। कीदृशाः। मेधसाताविव। मेधाः स्तुतयः सायन्ते सम्भज्यन्तेऽत्रेति मेधसातिर्यज्ञः। तस्मिन्निव त्वनात्मनैव सहस्रसाः सहस्रसङ्ख्याकधनस्य दातारः। ते शृण्वन्तु येऽश्वाः समिथेषु। सङ्ग्रामनामैतत्। सम्प्राप्त्यते योद्धृभिरत्रेति। तेषु सङ्ग्रामेशु महो महद्धनं जभ्रिरे। शत्रुभ्य आहरन्ति। हृग्रहोर्भः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः