मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ७

संहिता

प्र वो॑ वा॒युं र॑थ॒युजं॒ पुरं॑धिं॒ स्तोमै॑ः कृणुध्वं स॒ख्याय॑ पू॒षण॑म् ।
ते हि दे॒वस्य॑ सवि॒तुः सवी॑मनि॒ क्रतुं॒ सच॑न्ते स॒चित॒ः सचे॑तसः ॥

पदपाठः

प्र । वः॒ । वा॒युम् । र॒थ॒ऽयुज॑म् । पुर॑म्ऽधिम् । स्तोमैः॑ । कृ॒णु॒ध्व॒म् । स॒ख्याय॑ । पू॒षण॑म् ।
ते । हि । दे॒वस्य॑ । स॒वि॒तुः । सवी॑मनि । क्रतु॑म् । सच॑न्ते । स॒ऽचितः॑ । सऽचे॑तसः ॥

सायणभाष्यम्

हे स्तोतारः वो यूयं वायुं रथयुजं रथस्य योक्तारं पुरन्धिं बहुकर्माणमिन्द्रं पूशणमेतन्नामानं च स्तोमैस्त्रिवृत्पञ्चदशादिलक्शणैः सख्याय सखि कर्मणे प्र कृणुध्वम्। प्रकुरुध्वम्। यथा तेऽस्माकं धनादिप्रदानेन सखायो भवन्ति तथा कुरुत। हि यस्मात्सचितो ज्ञानयुक्तास्ते देवाः सचेतसः परस्परं समानबुद्धयः सन्तः सवितुः सर्वप्रेरकस्य देवस्यादित्यस्य सवीमनि प्रसवेऽह्नि क्रतुं यज्ञं सचन्ते सेवन्ते तस्मात्प्रकुरुध्वम्॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः