मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् ८

संहिता

त्रिः स॒प्त स॒स्रा न॒द्यो॑ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये॑ ।
कृ॒शानु॒मस्तॄ॑न्ति॒ष्यं॑ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं॑ हवामहे ॥

पदपाठः

त्रिः । स॒प्त । स॒स्राः । न॒द्यः॑ । म॒हीः । अ॒पः । वन॒स्पती॑न् । पर्व॑तान् । अ॒ग्निम् । ऊ॒तये॑ ।
कृ॒शानु॑म् । अस्तॄ॑न् । ति॒ष्य॑म् । स॒धऽस्थे॑ । आ । रु॒द्रम् । रु॒द्रेषु॑ । रु॒द्रिय॑म् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

त्रिः सप्तैकविंशतिसङ्ख्याकाः सस्राः सरन्तिर्नद्यो नदीः। सरस्वती सरयुः सिन्धुरिति त्रयाणां गणानां प्रधानभुताः। तदाद्या नदीर्महीर्महान्त्य पस्तासामुदकानि सोमाभिषवार्थं वनस्पतीन्दारुमायांश्च मसादीन्पर्वतान्सोमाभिषवार्थं ग्राव्णोऽग्निं होमनिष्पादकं कृशानुं सोमपालमेतन्नामानं गन्धर्वमस्तॄनिषूणां क्षेप्तॄंस्तदनुचरान्गन्धर्वानुतये सोमरक्शणाय तिश्यम् नक्षत्रं च रुद्रियं रुद्रस्तोमार्हम् रुद्रं हविभागिनं रुद्रमेतन्नामानं यद्वा परिशिष्टस्वामिनम् रुद्रं च एतान्सर्वान्सधस्थे। सह तिष्थन्त्यत्रेति सधस्थो यज्ञः । तस्मिन् रुद्रेषु स्तोत्रकारुषु तदर्थं हवामहे। स्तुत्यत्वेनाह्वयामहे॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः