मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १०

संहिता

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ ।
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ॥

पदपाठः

उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पि॒ता । वचः॑ ।
ऋ॒भु॒क्षाः । वाजः॑ । रथः॒पतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥

सायणभाष्यम्

उतापि च बृहद्दिवा। महद्दिवेति यास्कः। नि. ११-४९। महती दिवा दीप्तिर्यस्याः सा माता देवमाता नोऽस्माकमाह्वानम् शृणोतु। तथा देवेभिर्देवैरिन्द्रादिभिर्जनिभिर्देवपत्नीभिश्च पिता सर्वेशाम् त्वष्टैतन्नामकोऽस्मदीयं वचः शृणोतु। तथर्भुक्स्षा इन्द्रो वाजस्तत्सहायो वाजो नाम सौधन्वनः कनीयान् रथस्पती रथस्य पतिर्भगश्च तथा रण्वो रमणीयः शंसः स्तुत्यो मरुद्गणश्च ततः शशमानस्य शंसमानम् स्तोतॄन्नोऽस्मान्पातु। रक्षतु॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः