यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् ।
तां पी॑पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा॑थ ॥
यम् । मे॒ । धिय॑म् । मरु॑तः । इन्द्र॑ । देवाः॑ । अद॑दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।
ताम् । पी॒प॒य॒त॒ । पय॑साऽइव । धे॒नुम् । कु॒वित् । गिरः॑ । अधि॑ । रथे॑ । वहा॑थ ॥
हे मरुतो हे इन्द्र देवा हे वरुण हे मित्र यूयं यां धियम् यत्कर्म मे मह्यमददात दत्तवन्तः स्थ। मरुत इत्यत्र वाक्यभेदादनिघतः। पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत। फलेनाप्याययत। तत्र दृष्टान्तः। पयसेव धेनुं नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् किञ्च। गिरोऽस्मदीयाः स्तुतीरधि रथ आत्मीये रथे कुविद्बहुवारं वहाथ। प्राप्ताः स्थ। स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूधा भवथ॥१३॥