मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १३

संहिता

कु॒विद॒ङ्ग प्रति॒ यथा॑ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो॑धथ ।
नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा॑महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ॥

पदपाठः

कु॒वित् । अ॒ङ्ग । प्रति॑ । यथा॑ । चि॒त् । अ॒स्य । नः॒ । स॒ऽजा॒त्य॑स्य । म॒रु॒तः॒ । बुबो॑धथ ।
नाभा॑ । यत्र॑ । प्र॒थ॒मम् । स॒म्ऽनसा॑महे । तत्र॑ । जा॒मि॒ऽत्वम् । अदि॑तिः । द॒धा॒तु॒ । नः॒ ॥

सायणभाष्यम्

अङ्गेति सम्बुद्धौ। हे मरुतः यूयं नोऽस्मान्कुविद्बहुवारं प्रति बुबोधथ तथा प्रतिबुद्ध्यध्वम् । कुविच्छब्दयोगादनिघातः। यथा नोऽस्मान्सजात्यस्यास्य बान्धवस्य विषयभुतान्कुरुथ तथ जानीथ। ततो नाभा पृथिव्या नाभिस्थाने यत्र यस्मिन्नुत्तरवेदिलक्षने देशे प्रथममेव संननामहे हविषा यत्र सङ्गच्छेमहि तत्रैव देशेऽदितिर्देवानाम् माता नोऽस्माकं जमित्वं मनुष्यैः सह बान्धवं दधातु। विदधातु॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः