मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १४

संहिता

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः ।
उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥

पदपाठः

ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही इति॑ । दे॒वी इति॑ । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः ।
उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥

सायणभाष्यम्

मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हे ते द्यावापृथिवी द्यावापृथिव्यौ देवानिन्द्रादीञ्जन्मनैवेतो हि। प्राप्नुतः खलु। इण् गतौ। लिटि रूपम् । किञ्चोभे द्यावापृथिव्यौ भरीमभिर्भरणैर्नानाविधैरुभयम् जनं देवान्मनुष्यांश्च बिभृतः। धारयतः। पोशयतः। तथा पितृभिः पालकैर्देवैः सङ्गते ते पुरु पुरूण्यात्मीयानि रेतांस्युदकानि सिञ्चतः। क्षरतः। प्रत्यक्षेण धारयतः॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः