मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १६

संहिता

ए॒वा क॒विस्तु॑वी॒रवाँ॑ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः ।
उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी॑पय॒द्गयो॑ दि॒व्यानि॒ जन्म॑ ॥

पदपाठः

ए॒व । क॒विः । तु॒वि॒ऽरवा॑न् । ऋ॒त॒ऽज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि॑णसः । च॒का॒नः ।
उ॒क्थेभिः॑ । अत्र॑ । म॒तिऽभिः॑ । च॒ । विप्रः॑ । अपी॑पयत् । गयः॑ । दि॒व्यानि॑ । जन्म॑ ॥

सायणभाष्यम्

कविः क्रान्तप्रज्ञस्तुवीरवान्। मत्पर्थीयप्रत्ययावृत्तिः। बहुस्तुतियुक्त ऋतज्ञा यज्ञस्य वेदिता द्रविणस्युर्धनकामः। सर्वप्रातिपदिकेभ्यो लालसायामिति सुगागमः। तस्यैव विशदवचनम् । द्रविणसश्चकान इति। पश्वादिधनं कामयमान इत्यर्थः। विव्रो मेधावी गयो नामर्षिरेवमुक्तप्रकारेणात्र सूक्त उक्थेभिः शस्त्रैर्मतिभिः स्तुतिभिश्च दिव्यानि दिवि जातानि जन्म जननानि देवानपीपयत्। अवर्धयत्। अस्ताविदित्यर्थः॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः