मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६४, ऋक् १७

संहिता

ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता॑वि॒ जनो॑ दि॒व्यो गये॑न ॥

पदपाठः

ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे॑ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
ई॒शा॒नासः॑ । नरः॑ । अम॑र्त्येन । अस्ता॑वि । जनः॑ । दि॒व्यः । गये॑न ॥

सायणभाष्यम्

हे विश्व आदित्याः सर्वे देवा हे अदिते देवानां मातरेन्नामिके देवि वो युश्मान्मनीषी प्राज्ञः स्तोता प्लतेरेतन्नामकस्यर्षेः सूनुः पुत्रोगयो नामैवैवमुक्तरीत्यावीवृधत्। स्तुतिभिरवर्धयत्। वर्धतेर्ण्यन्तस्य लुङि रूपम्। अमर्त्येन मनुश्यधर्मरहितेन स्तुतेन येन देवजनेन नरो मनुष्या ईशानसो धनस्येश्वराः स्वामिनो भवन्ति स दिव्यो दिवि भवो जनो देवगणो गयेनैतन्नामकेन मयास्तावि। अभिष्टुतोऽभुत्। स्तौतेः कर्मणि लुङि चङि रूपम्॥१८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः