मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् २

संहिता

इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये॑षु॒ सत्प॑ती मि॒थो हि॑न्वा॒ना त॒न्वा॒३॒॑ समो॑कसा ।
अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो॑ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ॥

पदपाठः

इ॒न्द्रा॒ग्नी इति॑ । वृ॒त्र॒ऽहत्ये॑षु । सत्प॑ती॒ इति॒ सत्ऽप॑ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा॑ । सम्ऽओ॑कसा ।
अ॒न्तरि॑क्षम् । महि॑ । आ । प॒प्रुः॒ । ओज॑सा । सोमः॑ । घृ॒त॒ऽश्रीः । म॒हि॒मान॑म् । ई॒रय॑न् ॥

सायणभाष्यम्

वृत्रहत्या युद्धानि। तेशु मिथः परस्परम् तन्वा शरीरेण तत्रस्थेन बलेन शत्रून्हिन्वाना प्रेरयन्तौ सत्पति सताम् पती समोकसा समानस्थानविन्द्राग्नी। घृतश्रीरुदकं वसतीवर्याअख्यं श्रयमानो महिमानमात्मीयमीरयन् सर्वत्रोदीरयन्नुद्गमयन् सोमश्च। एते सर्वे च महि महदन्तरिक्शमोजसा स्वबलेना पप्रुः। आपूरयन्ति। प्रा पुरणे॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः