मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ४

संहिता

स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा ।
पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ॥

पदपाठः

स्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा ।
पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥

सायणभाष्यम्

स्वर्णरं सर्वस्य स्वस्वकर्मणि नेतारमादित्यमन्तरिक्षाणि। द्यावापृथिव्योरन्तरामध्ये क्षियन्ति निवसन्तीत्यन्तरिक्षाणि। मध्यस्थितानि रोचना रोचमानानि तेजंसि द्यावाभुमी द्यावापृथिव्यौ पृथिवीं विस्तीर्णमन्तरिक्षं च एतानादित्यादीनोजसा स्वबलेनैव देवाः स्कंभुः। धारयन्ति। स्कंभ इति सौत्रो धातुः। लिति रूपम्। किञ्च पृक्शा इव दरिद्रेषु धनानि संपर्चयन्त इव अत एव महयन्तः स्तोतॄन्धनादिभिः पूजयन्तः सुरातयह् सुदाना मनुशाय मनुष्याय सूरयो धनावां प्रेरका एते देवाः स्तवन्ते। अस्मिन्यज्ञे स्तूयन्ते॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः