मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ५

संहिता

मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः ।
ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो॑रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ॑ ॥

पदपाठः

मि॒त्राय॑ । शि॒क्ष॒ । वरु॑णाय । दा॒शुषे॑ । या । स॒म्ऽराजा॑ । मन॑सा । न । प्र॒ऽयुच्छ॑तः ।
ययोः॑ । धाम॑ । धर्म॑णा । रोच॑ते । बृ॒हत् । ययोः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । नाध॑सी॒ इति॑ । वृतौ॑ ॥

सायणभाष्यम्

दाशुषे धनानि स्तोतृभ्यः प्रयच्छते मित्राय वरुणाय च शिक्ष। हवींषि प्रयच्छ। शिक्षतिर्दानकर्मा। सम्राजा सम्राजौ सर्वस्य या यौ मित्रावरुनौ मनसान्तः करणेनापि न प्रयुच्छतह् न प्रमाद्यतः किमुत वाह्येन व्यापारेण। यच्छप्रमादे। भौवादिकः। ययोर्मित्रावरुणयोर्ब्रुहद्महद्धाम शरीरं धर्मणात्मीयेन लोकप्रकाशकाशनादिलक्षणेन कर्मणा रोचते सम्यग्दीप्यते। ययोश्च नाधसी। णाधृ याज्ञोपतापैश्वर्याशिःषु। याचमाने उभे रोदसी द्यावापृथिव्यौ वृतौ वर्तमाने भवतः। यद्वा। नाधसी देवमनुष्यैः समृद्धे द्यावापृथिव्यौ। तयोर्वृतौ वर्तमाने भवतः। तदधीने भवत इत्यर्थः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः