मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ६

संहिता

या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा॑ना व्रत॒नीर॑वा॒रतः॑ ।
सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे॑ दे॒वेभ्यो॑ दाशद्ध॒विषा॑ वि॒वस्व॑ते ॥

पदपाठः

या । गौः । व॒र्त॒निम् । प॒रि॒ऽएति॑ । निः॒ऽकृ॒तम् । पयः॑ । दुहा॑ना । व्र॒त॒ऽनीः । अ॒वा॒रतः॑ ।
सा । प्र॒ऽब्रु॒वा॒णा । वरु॑णाय । दा॒शुषे॑ । दे॒वेभ्यः॑ । दा॒श॒त् । ह॒विषा॑ । वि॒वस्व॑ते ॥

सायणभाष्यम्

येयं मदीया पयः क्षीरादिकम् दुहाना व्रतनीराश्रयणपयः प्रदानेन कर्मणो नेत्री गौर्निष्कृतम् संस्कृतं वर्तनिमावासस्थानं यज्ञमवारतोऽवरनेनाप्रार्थनेनैव पर्येति परिगच्छति स्वयमेवागच्छति प्रब्रुवाना मया प्रस्तूयमाना सा गौर्दाशुषे हविर्दत्तवते वरुणाय देवेभ्योऽन्येभ्य इन्द्रादिभ्यश्च हविषान्नेन विवस्वते देवान्परिचरते मह्यं मां रक्षितुं दाशत्। पयः प्रयच्छतु। दाशृ दाने। लॆट्याअगमः। यद्वा गौरिति माध्यमिका वाक् या पय ऊर्जम् दुहाना सा नो मन्द्रेषमुर्जम् दुहाना। इ. ८-१००-११। इत्यादिशु दृष्टत्वात्। तत्परतया पुर्ववद्योज्यम्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०