मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ८

संहिता

प॒रि॒क्षिता॑ पि॒तरा॑ पूर्व॒जाव॑री ऋ॒तस्य॒ योना॑ क्षयत॒ः समो॑कसा ।
द्यावा॑पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो॑ महि॒षाय॑ पिन्वतः ॥

पदपाठः

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । पू॒र्व॒जाव॑री॒ इति॑ पूर्व॒ऽजाव॑री । ऋ॒तस्य॑ । योना॑ । क्ष॒य॒तः॒ । सम्ऽओ॑कसा ।
द्यावा॑पृथि॒वी इति॑ । वरु॑णाय । सव्र॑ते॒ इति॒ सऽव्र॑ते । घृ॒तऽव॑त् । पयः॑ । म॒हि॒षाय॑ । पि॒न्व॒तः॒ ॥

सायणभाष्यम्

परिक्षिता परितो निवसन्तौ सर्वत्र व्यापिन्यौ पितरा सर्वेषां मातापितृभूते अत एव पूर्वजावरी पूर्वं जाते समोकसा समाननिवासस्थाने एते द्यावापृथिव्या वृतस्य यज्ञस्य योना योनौ स्थाने क्शयतः। आहुत्यधिकरणत्वेन निवसतः। हविर्धानरूपे वा क्शियतः। किञ्च सव्रते समानकर्मणी ते महिषाय महते पूज्याय वा वरुणाय । तं यष्तुम् । उपलक्षणमेतत्। अन्यान्धेवानपि। घृतवत्क्षरनवत्त् पय उदकं पिन्वतः। सिञ्चतः। उदकेन ह्यन्नं जायते॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०