मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ९

संहिता

प॒र्जन्या॒वाता॑ वृष॒भा पु॑री॒षिणे॑न्द्रवा॒यू वरु॑णो मि॒त्रो अ॑र्य॒मा ।
दे॒वाँ आ॑दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो॑ अ॒प्सु ये ॥

पदपाठः

प॒र्जन्या॒वाता॑ । वृ॒ष॒भा । पु॒री॒षिणा॑ । इ॒न्द्र॒वा॒यू इति॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
दे॒वान् । आ॒दि॒त्यान् । अदि॑तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि॑वासः । दि॒व्यासः॑ । अ॒प्ऽसु । ये ॥

सायणभाष्यम्

पर्जन्यावाता पर्जन्यावातौ पर्जन्यावायू वृशभावृशभौ कामानां सेक्तारौ पुरीषिणा पुरीषिणौ। पुरीशमुदकम्। कर्तृत्वेन तद्वन्तौ ताविन्द्रवायू वरुणादयश्च एते स्वमहिम्ना सर्वत्र वर्तन्ते। वायोः पर्जन्येनेन्द्रेण च तत्कार्यापेक्षया सहोपादानम्। एतानादित्यान्देवानदितिं तेषां मातरं च हवामहे। अस्मिन्यज्ञे वयमाह्वयामः। किञ्च ये देवाः पार्थिवासः पार्थिवाः पृथिव्यां भवा ये च दिव्या दिवि जाता ये चाप्स्वन्तरिक्शे समुत्पन्नाः तानाह्वयामहे॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०