मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १०

संहिता

त्वष्टा॑रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता॑रा उ॒षसं॑ स्व॒स्तये॑ ।
बृह॒स्पतिं॑ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं॑ धन॒सा उ॑ ईमहे ॥

पदपाठः

त्वष्टा॑रम् । वा॒युम् । ऋ॒भ॒वः॒ । यः । ओह॑ते । दैव्या॑ । होता॑रौ । उ॒षस॑म् । स्व॒स्तये॑ ।
बृह॒स्पति॑म् । वृ॒त्र॒ऽखा॒दम् । सु॒ऽमे॒धस॑म् । इ॒न्द्रि॒यम् । सोम॑म् । ध॒न॒ऽसाः । ऊं॒ इति॑ । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे ऋभवः। ऋतेन सत्येन भान्तीत्यृभवः। उरु प्रभुतं स्वतेजसा भान्तीति वा। हे मेधाविनः यः सोमः स्वस्तये कल्याणाय युश्माकं मदाय त्वष्टृप्रभृतीनोहते। ओहिर्गथर्थः। भौवादिकः। अवहति प्राप्नोति। तथा बृहस्पतिं सुमेधसं सुप्रज्ञं वृत्रखादं वृत्रस्यासुरस्य खादितारमिन्द्रं च प्राप्नोति धनासा धनं सम्भजमाना वयमिन्द्रियमिन्द्रजुश्टं तं सोममीमहे। धनम् याचामहे। ईमह इति याच्ञा कर्मा। ईङ् गतौ दैवादिकः। बहुलं छन्दसीत विकरणस्य लुक्॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०