मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् ११

संहिता

ब्रह्म॒ गामश्वं॑ ज॒नय॑न्त॒ ओष॑धी॒र्वन॒स्पती॑न्पृथि॒वीं पर्व॑ताँ अ॒पः ।
सूर्यं॑ दि॒वि रो॒हय॑न्तः सु॒दान॑व॒ आर्या॑ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ॥

पदपाठः

ब्रह्म॑ । गाम् । अश्व॑म् । ज॒नय॑न्तः । ओष॑धीः । वन॒स्पती॑न् । पृ॒थि॒वीम् । पर्व॑तान् । अ॒पः ।
सूर्य॑ । दि॒वि । रो॒हय॑न्तः । सु॒ऽदान॑वः । आर्या॑ । व्र॒ता । वि॒ऽसृ॒जन्तः॑ । अधि॑ । क्षमि॑ ॥

सायणभाष्यम्

ब्रह्मवर्धनसाधनमन्नम् । अन्नेन हि सर्वाः प्रजाः वर्धन्ते। गामश्वमेतत्प्रभृतीन्पशून् तथौशधीर्वनस्पतींश्च तथा पृथिवीं विस्त्रीर्णां भूमिं पर्वताञ्शेलोच्चायान् वृष्त्या जगदापुरकान्मेघान्वा अप उदकान्यन्तरिक्षं वा एताञ्जनयन्त उत्पादयन्तः किञ्च दिवि द्युलोके सूर्यमादित्यं रोहयन्तः सुदानवः शोभनदानास्तेऽमी देवा अधि क्षमि। अत इति योगविभागात्। पा. ६-४-१४०। अकार लोपः। क्शमायां पृथिव्यामार्या श्रेष्थानि कल्याणानि व्रतानि कर्माणि यागादीनि विसृजन्तः प्रसारयन्तः सर्वत्र वर्तन्ते। तान्वयम् धनं याचामह इति शेशः॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११