मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १२

संहिता

भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं॑ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् ।
क॒म॒द्युवं॑ विम॒दायो॑हथुर्यु॒वं वि॑ष्णा॒प्वं१॒॑ विश्व॑का॒याव॑ सृजथः ॥

पदपाठः

भु॒ज्युम् । अंह॑सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव॑म् । पु॒त्रम् । व॒ध्रि॒ऽम॒त्याः । अ॒जि॒न्व॒त॒म् ।
क॒म॒ऽद्युव॑म् । वि॒ऽम॒दाय॑ । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व॑म् । विश्व॑काय । अव॑ । सृ॒ज॒थः॒ ॥

सायणभाष्यम्

हे अश्विनाश्ववन्तौ सर्वं व्याप्नुवन्तौ वैतन्नामकौ हे देवौ अंहस उपद्रवकारिनः समुद्राद्भुज्यं तुग्रपुत्रमेतन्नामानं निः पिपृथः। निष्पारयथः। नितरां रक्षथः। पॄ पालन पूरणयोः। चौहोत्यादिकः। निष्तौग्र्यं पारयथः समुद्रात्। ऋ. १-११८-६। इति निगमः। तथा श्यावं हिरण्यहस्तनामानं पुत्रं वध्रिमत्या एतन्नामिकाया अजिन्वतम् । अप्रीणयतम् । अदत्तम् । हिरण्यहस्तमश्विना रराना। ऋ. १-११७-२४। इत्यादि निगमः। तथा कमद्युवं कामस्य दीपनीं वेनपुत्रीं जायां विमदायर्षये युवमूहथुः। प्रापयथः। युवं रथेन विमदाय। ऋ. १०-३९-७। इति निगमः। तथा विष्णाप्वमेतन्नामानं विनष्टं पुत्रं विश्वकायर्षय आनीयाव सृजथः। अदत्तम्। पशुं न नष्टमिव दर्शनाय। ऋ. १-११६-२३। इति निगमः॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११