मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १३

संहिता

पावी॑रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ ।
विश्वे॑ दे॒वासः॑ शृणव॒न्वचां॑सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं॑ध्या ॥

पदपाठः

पावी॑रवी । त॒न्य॒तुः । एक॑ऽपात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः॑ । आपः॑ । स॒मु॒द्रियः॑ ।
विश्वे॑ । दे॒वासः॑ । शृ॒ण॒व॒न् । वचां॑सि । मे॒ । सर॑स्वती । स॒ह । धी॒भिः । पुर॑म्ऽध्या ॥

सायणभाष्यम्

पावीरव्यायुधवति तन्यतुः स्तनयित्री वाग्मध्यमिका तथा दिवो द्युलोकस्य धर्ता धारयिताज एकपात् एक एव पद्यते गच्छतीति न जायत इत्येत्संज्ञको देवः सिन्धुश्च समुद्रियः। समुद्रमन्तरिक्षम् । तत्र भवा आपश्च। समुद्राभ्राद्घ इति भावार्थे घप्रत्ययः। विश्वे देवाश्च धीभिः कर्मभिर्युक्ताः पुरन्ध्या बहुविधया प्रज्ञया सहिता सरस्वती च मे मदीयानि वचांसि वक्तव्यानि स्तोत्राणिशृणवन्। शृण्वन्तु। पविः शल्यो भवति यद्विपुनाति कायमित्यादि निरुक्तमनुसन्धेयम्। नि. १२-३०॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११