मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६५, ऋक् १४

संहिता

विश्वे॑ दे॒वाः स॒ह धी॒भिः पुरं॑ध्या॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
रा॒ति॒षाचो॑ अभि॒षाचः॑ स्व॒र्विद॒ः स्व१॒॑र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ॥

पदपाठः

विश्वे॑ । दे॒वाः । स॒ह । धी॒भिः । पुर॑म्ऽध्या । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।
रा॒ति॒ऽसाचः॑ । अ॒भि॒ऽसाचः॑ । स्वः॒ऽविदः॑ । स्वः॑ । गिरः॑ । ब्रह्म॑ । सु॒ऽउ॒क्तम् । जु॒षे॒र॒त॒ ॥

सायणभाष्यम्

धीभिः कर्मभिः सहिताः पुरन्ध्या प्रज्ञानेन युक्ता मनोर्मनुष्यस्य यज्ञे यजत्रा यष्टव्या अमृता मरणधर्मरहिता ऋतज्ञाः सत्यविदो रातिषाचो दीयमानं हविः सेवमाना अभिषाच आभिमुख्येन यज्ञं समवयन्तः सङ्गतवन्तः स्वर्विदः सर्वस्य लम्भका विश्वे सर्व इन्द्रादयो देवाः स्वः सर्वा गिरोऽस्मदीयाः स्तुतीर्ब्रह्म महच्चान्नम् सूक्तं सुष्ठु वक्तव्यम् स्तोमं यद्वा सुष्ठु मन्त्रेण सह दत्तमन्नं जुषेरत। सेवन्ताम्। जुषी प्रीतिसेवनयोः। तौदादिकः। अनुदात्तेत्। लिङि झस्य रनादेशाभावश्छान्दसः। बहुलं छन्दसीति रुडागमः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११