मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् १

संहिता

दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥

पदपाठः

दे॒वान् । हु॒वे॒ । बृ॒हत्ऽश्र॑वसः । स्व॒स्तये॑ । ज्यो॒तिः॒ऽकृतः॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसः ।
ये । व॒वृ॒धुः । प्र॒ऽत॒रम् । वि॒श्वऽवे॑दसः । इन्द्र॑ऽज्येष्ठासः । अ॒मृताः॑ । ऋ॒त॒ऽवृधः॑ ॥

सायणभाष्यम्

देवान्हुव इति पञ्चदशर्चं षष्ठम् सुक्तम्। ऋष्याद्याः पूर्ववत्। देवान्हुव इत्यनुक्रान्तम्। पृष्थ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धान्त्म्। सूत्रितं च। इहेह व इति चतस्रो देवान्हुव इति वैश्वदेवम्। आ. ७-५। इति॥

बृहच्छ्रवसः प्रभूतान्नाञ्ज्योतिष्कृत आदित्याख्यस्य तेजसः कर्तॄन्प्रचेतसः प्रकृष्टज्ञानाम्स्तान्देवानध्वरस्यास्य यज्ञस्य स्वस्तये७विनाशाय निर्विघ्नेन यज्ञ परिसमाप्तये हुवे। आह्वयामि। विश्ववेदसः सर्वधना इन्द्रज्येष्ठासः। इन्द्रो ज्येष्थ प्रधानो येशाम् । इन्द्रनेतृका इत्यर्थः। अमृता मरनधर्मरहिता ऋतावृधो यज्ञेन प्रवृद्धा ये देवाः प्रतरमत्यन्तं ववृधुः वर्धन्ते॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२