मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ३

संहिता

इन्द्रो॒ वसु॑भि॒ः परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑ति॒ः शर्म॑ यच्छतु ।
रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभि॑ः सुवि॒ताय॑ जिन्वतु ॥

पदपाठः

इन्द्रः॑ । वसु॑ऽभिः । परि॑ । पा॒तु॒ । नः॒ । गय॑म् । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।
रु॒द्रः । रु॒द्रेभिः॑ । दे॒वः । मृ॒ळ॒या॒ति॒ । नः॒ । त्वष्टा॑ । नः॒ । ग्नाभिः॑ । सु॒वि॒ताय॑ । जि॒न्व॒तु॒ ॥

सायणभाष्यम्

वसुभिरेतन्नामकैरष्टभिर्देवैः सहित इन्द्रो नोऽस्मदीयं गयम् । गृहनामैतत् प्राप्तव्यं गायते शब्द्यतेऽत्रेति वा गृहम् गयम्। परि पातु। परिरक्शतु। तथादितिर्देवमातादित्यैर्देवैः सह नोऽस्मभ्यं शर्म सुखं प्रयच्छतु। किञ्च देवो दीप्यमानो रुद्रो रुद्रेभिः स्वपुत्रैर्मरुद्भिः सह होऽस्मान्म्रुळयाति। सुखयतु। मृड सुखने। लेट्यडाग्माः। अपि च त्वष्टा प्रजापतिर्ग्नाभिर्देवपत्नीभिश्छन्दोभिः सुविताय सुष्ठु प्राप्तव्यायाभ्युदयाय नोऽस्माञ्जिन्वतु। प्रीणयतु॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२