मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ५

संहिता

सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।
ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दस॒ः शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥

पदपाठः

सर॑स्वान् । धी॒भिः । वरु॑णः । धृ॒तऽव्र॑तः । पू॒षा । विष्णुः॑ । म॒हि॒मा । वा॒युः । अ॒श्विना॑ ।
ब्र॒ह्म॒ऽकृतः॑ । अ॒मृताः॑ । वि॒श्वऽवे॑दसः । शर्म॑ । नः॒ । यं॒स॒न् । त्रि॒ऽवरू॑थम् । अंह॑सः ॥

सायणभाष्यम्

धीभिः प्रज्ञाभिर्युक्तः सरस्वानेतन्नामा धृतव्रतो धृतकर्मा वरुणश्च पूषा महिमा महत्त्वेन युक्तो विष्णुश्च वायुरश्विनाश्विनौ बृह्मकृतः कर्मकृतः स्तोतॄणामन्नदातारो वा विश्वव्दसः सर्वढना व्याप्तज्ञाना वांहसः पापरूपानां शत्रूणां हन्तारोऽम्रुता एते देवानोऽस्मभ्यं त्रिवरूथं त्रिष्कम्भं त्रिकक्ष्यं शर्म ग्रुहम् । यद्वा। त्रिवरूथम् । द्रोणाधवनीयपूतभृत्संज्ञकानि त्रीणि पात्राणि यत्रव्रियन्ते सम्भज्यन्ते तद्यज्ञसाधनं गृहम् । यंसन्। प्रयच्छन्तु। यच्छतेर्लेटि सिष्यडागमः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२