मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ६

संहिता

वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।
वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥

पदपाठः

वृषा॑ । य॒ज्ञः । वृष॑णः । स॒न्तु॒ । य॒ज्ञियाः॑ । वृष॑णः । दे॒वाः । वृष॑णः । ह॒विः॒ऽकृतः॑ ।
वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । वृषा॑ । प॒र्जन्यः॑ । वृष॑णः । वृ॒ष॒ऽस्तुभः॑ ॥

सायणभाष्यम्

यज्ञ एषोऽस्मदीयो व्रुशा कामानां वर्षितास्तु। तथा यज्ञिया यज्ञार्हा देवाश्च वृशनः सन्तु। किञ्च देवाह् स्तुतिकारिण ऋतिजो वृशणो धनवर्षणे कारनानि सन्तु साधुस्तुतिकरणेन। तथा हविष्कृतो हविषाम् कर्तारोऽध्वर्व्यादयो वृषणोऽव्यग्रतया मन्त्रसाहित्येन च हविष्प्रदानेन। अपि चर्तावरी यज्ञवत्यौ द्यावापृथिवी द्यावापृथिव्यौ व्रुषणा हविरुत्पादनेन कामानां वर्षयित्रौ भवताम्। तथा पर्जन्य इन्द्रो वृषापां वर्षिता भवतु। वृषस्तुभो वर्षनशीलस्तुतिभिर्देवान्स्तुवन्तः सर्व ऋत्विजो वृषणो भवन्तु॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३