मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ८

संहिता

धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।
अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥

पदपाठः

धृ॒तऽव्र॑ताः । क्ष॒त्रियाः॑ । य॒ज्ञ॒निः॒ऽकृतः॑ । बृ॒ह॒त्ऽदि॒वाः । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रियः॑ ।
अ॒ग्निऽहो॑तारः । ऋ॒त॒ऽसापः॑ । अ॒द्रुहः॑ । अ॒पः । अ॒सृज॒न् । अनु॑ । वृ॒त्र॒ऽतूर्ये॑ ॥

सायणभाष्यम्

धृतव्रता धृतकर्माणो जात्याक्षत्रियाः। यद्वा। क्षत्रम् बलम् । तदर्हास यज्ञनिष्कृतः। यज्ञं प्रति निर्गमनं यज्ञनिः। तस्य कर्तारो ब्रुहद्दिवा महातेजस्का अध्वराणाम् रक्षोभिरहिंसितानां यज्ञानामभिश्रियोऽभिसेवका अग्निहोतारोऽग्निर्होताह्वाता येशां तादृशा ऋतसापः। षप समवाये। सत्यभाजः अत एवाद्रुहः केषांचिदप्यद्रोग्धारः। यद्वा। द्रुहेः कर्मण्यौणादिकः क्विप्। कैश्चिदप्यहिंस्याः। एवं प्रभावा देवा वृत्रतूर्ये। वृत्रस्तूर्यते हिंस्यतेऽत्रेति वृत्रतूर्यः सङ्ग्रामः। तस्मिन्नपामावरकशत्रुवधेऽप उदकान्यन्वसृजन्। अन्वसारयन्॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३