मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् ९

संहिता

द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।
अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥

पदपाठः

द्यावा॑पृथि॒वी इति॑ । ज॒न॒य॒न् । अ॒भि । व्र॒ता । आपः॑ । ओष॑धीः । व॒निना॑नि । य॒ज्ञिया॑ ।
अ॒न्तरि॑क्षम् । स्वः॑ । आ । प॒प्रुः॒ । ऊ॒तये॑ । वश॑म् । दे॒वासः॑ । त॒न्वि॑ । नि । म॒मृ॒जुः॒ ॥

सायणभाष्यम्

देवासो देवा इन्द्रादयो द्यावापृथिवी द्यावापृथिव्यावभ्यभिलक्ष्य व्रता व्रतेन स्वेन कर्मणापः। सुब्व्यत्ययः। अप उदकान्योषधीश्च तथा यज्ञिया यज्ञार्हान्वनिनानि वने भवान्पलाशादीन्वृक्षाञ्जनयन्। उदपादयन्। किञ्च ते देवाः स्वः सर्वमन्तरिक्षमा पप्रुः। तेजसापुरयन्ति। किमर्थम्। ऊतये रक्षणाय शत्रुभ्यो बाधाभावाय। अपि च वशं काम्यमानम्। वशिरण्योरुपसंख्यानम्। पा. ३-३-५८-३। इत्यकर्तरि कारकेऽप्। तं यज्ञं तन्वि स्वशरीरे नि ममृजुः। नितरां शुद्धमलंकृतं चक्रुः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३