मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् १०

संहिता

ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।
आप॒ ओष॑धी॒ः प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥

पदपाठः

ध॒र्तारः॑ । दि॒वः । ऋ॒भवः॑ । सु॒ऽहस्ताः॑ । वा॒ता॒प॒र्ज॒न्या । म॒हि॒षस्य॑ । त॒न्य॒तोः ।
आपः॑ । ओष॑धीः । प्र । ति॒र॒न्तु॒ । नः॒ । गिरः॑ । भगः॑ । रा॒तिः । वा॒जिनः॑ । य॒न्तु॒ । मे॒ । हव॑म् ॥

सायणभाष्यम्

दिवो द्युलोकस्य धर्तारो धारयितार ऋभवः सत्येन भासमानाः सुहस्ताः शोभनवज्राद्यायुधयुक्तहस्ता देवास्तथा महिषस्य महतस्तन्यतोः शब्दस्य। तनुविस्तारे। ऋतन्यञ्जीति यतुच्प्रत्ययः। शब्दस्य कर्तारौ वातापर्जन्या वातश्च पर्जन्यश्च तत्कार्या आप ओषधीरोषधयश्च नोऽस्माकं गिरः स्तुतीः प्र तिरन्तु। प्रवर्धयन्तु। प्रपुर्वस्तिरतिर्वृद्ध्यर्थः। तथा रातिर्दाता भगो भजनीयोऽर्यमा च वाजिहः। अग्निर्वायुः सूर्यस्ते वै वाजिन इति तैत्तिरीयब्राह्मणम्। १-६-३-९। एते देवाश्च मे मदीयं हवमाह्वानं यन्तु। अभिगच्छन्तु॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३