मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् १२

संहिता

स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या ।
आदि॑त्या॒ रुद्रा॒ वस॑व॒ः सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥

पदपाठः

स्याम॑ । वः॒ । मन॑वः । दे॒वऽवी॑तये । प्राञ्च॑म् । नः॒ । य॒ज्ञम् । प्र । न॒य॒त॒ । सा॒धु॒ऽया ।
आदि॑त्याः । रुद्राः॑ । वस॑वः । सुऽदा॑नवः । इ॒मा । ब्रह्म॑ । श॒स्यमा॑नानि । जि॒न्व॒त॒ ॥

सायणभाष्यम्

हे देवाः मनवो मनुष्या वयं वो यष्मदीयाय देववीतये। देवानां वीतिर्भक्षनं यस्मिन् स यज्ञः । तस्मै यज्ञाय स्याम। यज्ञकर्तारो भवेम। ततो नोऽस्मदीयं यज्ञं साधुया। सुप्रो याजादेशः। साधु कल्याणं प्राञ्चं प्राचीनं प्र णयत। प्रकृष्टाञ्चानं कुरुत। हे आदित्या हे रुद्रा रुद्रपुत्रा मरुतो हे सुदानवः शोभनदाना हे वसवः इमेमानि शस्यमानानि ब्रह्म ब्रह्मानि स्तोत्राणि जिन्वत। प्रीणयत॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४