मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् १३

संहिता

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥

पदपाठः

दैव्या॑ । होता॑रा । प्र॒थ॒मा । पु॒रःऽहि॑ता । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒मि॒ । सा॒धु॒ऽया ।
क्षेत्र॑स्य । पति॑म् । प्रति॑ऽवेशम् । ई॒म॒हे॒ । विश्वा॑न् । दे॒वान् । अ॒मृता॑न् । अप्र॑ऽयुच्छतः ॥

सायणभाष्यम्

आप्तोर्यामेच्छावाकातिरिक्तोक्थस्य दैव्या होतारेत्येषा परिधानीया। सुत्रितं च। उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीया। आ. ९-११। इति॥

प्रथमा मुखौ पुरोहिता पुरोहितौ पुरतो निहितौ दैव्या देवसंबन्धिनौ होतारा होतारावेतन्नामानावग्न्यादित्यावन्वेमि। हविर्भिरनुगच्छामि। तत ऋतस्य यज्ञस्य पन्था पन्थानं साधुया कल्याणं विघ्नराहित्येनान्वेमि। अनुगच्छाअमि। अनन्तरं प्रतिवेशं समीपे वर्तमानं क्षेत्रस्य पतिं पालयितारमेतन्नामानममृतान्मरणधर्मरहितानप्रयुच्छतोऽप्रमाद्यतो विश्वान्सर्वान्देवांशेमहे। धनं याचामहे॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४