मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६६, ऋक् १४

संहिता

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।
प्री॒ता इ॑व ज्ञा॒तय॒ः काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥

पदपाठः

वसि॑ष्ठासः । पि॒तृ॒ऽवत् । वाच॑म् । अ॒क्र॒त॒ । दे॒वान् । ईळा॑नाः । ऋ॒षि॒ऽवत् । स्व॒स्तये॑ ।
प्री॒ताःऽइ॑व । ज्ञा॒तयः॑ । काम॑म् । आ॒ऽइत्य॑ । अ॒स्मे इति॑ । दे॒वा॒सः॒ । अव॑ । धू॒नु॒त॒ । वसु॑ ॥

सायणभाष्यम्

ऋषिवत् पूर्व ऋषय इव देवानीळानाः स्तुवन्तो वसिष्ठासो वसिष्ठकुलजाता ऋषयः पितृवद्वसिष्ठवत्स्वस्तयेऽविनाशाय वाचं स्तोत्रमक्रत। कुर्वन्ति॥ करोतेर्लुञि मन्त्रे घसेति च्लेर्लुक्। हे देववासो देवाः यूयं काममस्मदभिलाषमेत्यागत्यास्मे अस्मासु वसु गवादि लक्षनं धनमव धूनुत। अभिमुखं प्रेरयत। तत्र दृष्टान्तः। प्रीता इव। यथा प्रीताः संहृष्टा ज्ञातयो बन्धवः स्वजनस्य धनं प्रेरयन्ति तद्वद्धविर्दानेन स्तुतिकरनेन च बन्धुष्वस्मासु धनं प्रेरयतेति भावः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४