मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् २

संहिता

ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

पदपाठः

ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।
विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् । म॒न॒न्त॒ ॥

सायणभाष्यम्

ऋतं सत्यभूतं स्तोत्रं शंसंतः स्तुवन्त ऋजु कल्यानं दिध्यानाः कर्माणि ध्यायन्तो दिवो दीप्तस्यासुरस्य प्रज्ञानवतोऽग्नेरङ्गिरसः पुत्राः। अङ्गिरसो ह्यङ्गारेभ्यो जाता इत्युक्तम्। अङ्गारेष्वङ्गिराः। नि. ३-१७-१ इति। वीरा विक्रान्तप्रज्ञा एतेऽङ्गिरसो विप्रं प्रज्ञापकं यज्ञस्य धाम धारकं पदं बृहस्पत्याख्यम् दधानाः कर्मणा धारयन्तः सन्तः प्रथममादित एव मनन्त। स्तुवन्ति। प्रज्ञापकं ह्येतत्स्थानं यद्ब्रुहस्पतिरिति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५