मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ३

संहिता

हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥

पदपाठः

हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना । वि॒ऽअस्य॑न् ।
बृह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् । उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥

सायणभाष्यम्

देवसुवां हविषु बृहस्पतये वाचस्पतय इत्यस्य याज्या हंसैरिवेत्येशा। सुत्रितम् च। बृहस्पते प्रथमं चाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः। आ. ४-११। इति॥

हंसैरिव मधुरवाग्भिः सखिभिः सखिभूतैर्वावदद्भिरत्यन्तं शब्दायमानैर्मरुद्भिरश्मन्मयान्यश्ममयानि नहना गवां गन्धकान्यावरकाण्यसुराणां स्थानानि व्यस्यन् विक्शिपञ्शुथिलयन्नभिकनिक्रददाभिमुख्येन शब्दयन् गाः पणिभिरपहृतान्पशूनाजिहीर्षुः स बृहस्पतिर्वर्तते। यद्वा। वावदद्भिरत्यन्तं स्तुवद्भि स्तोतृभिः सह गाः स्तोत्रलक्षणा वाचोभिकनिक्रददाभिमुख्येनोच्चारयन्। उतापि च प्रास्तौत्। कर्मणि प्रव्रुत्तौ यज्ञस्य सखिभिः सहासीनः साम गातुं प्रस्तौति। विद्वान् सर्वं जानानः स उद्गाता भुत्वोदगायत्। देवानुद्गायति। अभिष्टौति॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५