इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥
इन्द्रः॑ । व॒लम् । र॒क्षि॒तार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ । रवे॑ण ।
स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् । आ । गाः । अ॒मु॒ष्णा॒त् ॥
इन्द्र ईश्वरो बृहस्पतिर्दुघानां क्षीरस्य दोग्ध्रीणां गवां रक्षितारं वलमसुरं करेणेव सायुधकर इव स्थितेन रवेण शब्देन वलं वि चकर्त। विचिच्छेद। किञ्च स्वेआञ्जिभिः। स्वेआञ्जयो मरुतः क्षरदाभरणाः। तै सहाशिरमाश्रयमानं संयोगमिच्छमानः कामयमानः पणिं वलस्यानुचरमेतन्नामानमसुरमरोदयत्। व्यनाशयत्। ततस्तेनापहृता गा अमुष्णात्। आजहार॥६॥