मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ७

संहिता

स ईं॑ स॒त्येभि॒ः सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥

पदपाठः

सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः ।
ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥

सायणभाष्यम्

स बृहस्पतिः सत्येभिर्यथार्थबलईः सखिभिः। सखिभुतैः शुचद्भिर्दीप्यमानैर्धनसैर्धनस्य सम्भक्तृभिर्मरुद्भिः सह गोधायसं गवां धारकमीमेनं वलंव्यदर्दः। व्यदारयत्। ततो ब्रह्मण ऋग्यजुःसामलक्शणस्य स्तोत्रस्य पतिरधिपतिः स वृशभिर्वर्शितृभिर्वराहैर्वराहारैर्वरस्य वरणीयस्योदकस्याहर्तृभिर्घर्मस्वेदेभिर्दीप्तागमनैः यद्वा क्षरदुदकैः। अथवा। घर्मो यज्ञः तं प्रति गन्तृभिर्मरुद्भिर्द्रविणं गोलक्शणं धनं व्यानट्। व्याप्नोत्॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६