मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ८

संहिता

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।
बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भि॑ः ॥

पदपाठः

ते । स॒त्येन॑ । मन॑सा । गोऽप॑तिम् । गाः । इ॒या॒नासः॑ । इ॒ष॒ण॒य॒न्त॒ । धी॒भिः ।
बृह॒स्पतिः॑ । मि॒थःऽअ॑वद्यपेभिः । उत् । उ॒स्रियाः॑ । अ॒सृ॒ज॒त॒ । स्व॒युक्ऽभिः॑ ॥

सायणभाष्यम्

गाः पणिभिरपहृतान्पशूनियानासोऽभिगच्छन्तः सत्येन यथार्थभूतेन मनसा युक्तास्ते मरुतो धीभिरात्मीयैः कर्मभिरेतं ब्रुहस्पतिं गोपतिं तदाहरणेन गवां स्वामिनं कुर्म इतीशणयन्त। ऐच्छन्। ब्रुहस्पतिश्च मिथो अवद्यपेभिः। पातेः कर्मण्यौणादिकः प्रत्ययः। अवद्यरुपादसुराद्रक्षितव्या गावो येशु मरुत्सु परस्परं सङ्गच्छन्त इति ते तथोक्ताः। तैः स्वयुग्भिः स्वयमेव युक्तैर्मरुद्भिरुस्रिया गा उदसृजत। पर्वतान्निरगमयत्॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६