मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ९

संहिता

तं व॒र्धय॑न्तो म॒तिभि॑ः शि॒वाभि॑ः सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

पदपाठः

तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् । स॒धऽस्थे॑ ।
बृह॒स्पति॑म् । वृष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ । जि॒ष्णुम् ॥

सायणभाष्यम्

सधस्थे। सह तिष्थन्त्यत्र देवा इति सधस्थमन्तरिक्षम् । तस्मिन् सिम्हमिव नानदतं पुनः पुनः शब्दायमानं वृषणं कामानां वर्षितारं जिष्णुं जयशीलं तं बृहस्पतिं वर्धयन्तो मरुतो वयं शूरसातौ शूरैः सम्भजनीये भरे भरे सङ्ग्रामे शिवाभिः कल्याणीभिः स्तुतिभिरनु मदेम। अनुष्तुमः। स्तोतृपरत्वेन वा योजनीयम्॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६