मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् १०

संहिता

य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥

पदपाठः

य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् । उत्ऽत॑राणि । सद्म॑ ।
बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ । बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥

सायणभाष्यम्

स बृहस्पतिरदा यस्मिन्काले विश्वरूपं नानारूपं वाजं गोलक्शनमन्नमसनत् भजते यदा वाहृतपशुकः सन् द्यां द्युलोकमरुक्शत् आरोहति। अथवोत्तरानि वा सद्म स्थानान्यारोहति। रुहेर्लुङि च्लेः शल इगुपधादनिटः क्सः पा. ३-१-४५। तदानीं वृशणं वर्षितारं बृहस्पतिमासास्येन देवा वर्धयन्तो भवन्ति। तथा नाना दिक्षु सन्तो भवन्तो ज्योतिर्बिभ्रतो धारयन्तो देवाश्च स्तुवन्ति॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६