मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६७, ऋक् ११

संहिता

स॒त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवै॑ः ।
प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥

पदपाठः

स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒यः॒ऽधै । की॒रिम् । चि॒त् । हि । अव॑थ । स्वेभिः॑ । एवैः॑ ।
प॒श्चा । मृधः॑ । अप॑ । भ॒व॒न्तु॒ । विश्वाः॑ । तत् । रो॒द॒सी॒ इति॑ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥

सायणभाष्यम्

हे बृहस्पतिप्रभृतयो देवा वयोधा अन्नस्य धानायास्मदीयामाशिषम् स्तुतिं सत्यां यथार्थं कृणुत। कुरुत। तथाद् यूयं स्वेभिरात्मीयैरेवैर्गमनैः कीरिं स्तोतारं मामवथ। रक्षथ। हिरवधारणे। पश्चा च छन्दसि। पा. ५-३-३३। इति निपातितः। पश्चादिश्वाः सर्वा मृधो हिंसित्र्योऽप भवन्तु। नश्यन्तु। तदिदमस्माभिरुक्तं वचनं हे विश्वमिन्वे विश्वस्य प्रीणयित्र्यौ हे रोदसी द्यावापृथिव्यौ शृणुतम्॥११॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६