इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॑न्दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य॑ ।
अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥
इन्द्र ईश्वरो मह्ना महत्त्वेन युक्तो बृहस्पतिर्महतो अर्णवस्योदकवतोऽर्बुदस्यांबुदस्य मेघस्य मूर्धानं शिरो व्यभिनत्। व्यच्छिनत्। तदुच्यते। अहिमहंतव्यमपामावरकं शत्रुमहन्। अवधित्। अतः सप्त सर्पणशीलाः सिन्धून् स्यन्दमाना अपः। यद्वा। सप्तसङ्ख्याका गाङ्गाद्या नदीः। अरिणात्। समुद्रं प्रत्यगमयत्। अथ प्रत्यक्षकृतः। हे द्यावापृथिव्यौ देवैः सह नोऽस्मान्प्रवतम्। प्ररक्शतम्॥१२॥