मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् १

संहिता

उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषा॑ः ।
गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य१॒॑र्का अ॑नावन् ॥

पदपाठः

उ॒द॒ऽप्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्यऽइव । घोषाः॑ ।
गि॒रि॒ऽभ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बृह॒स्पति॑म् । अ॒भि । अ॒र्काः । अ॒ना॒व॒न् ॥

सायणभाष्यम्

उदप्रुत इति द्वादशर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत्। उदप्रुत इत्यनुक्रान्तम्। उक्थे ब्राह्मणच्छन्ंसिन एतत्सूक्तम्। सूत्रितं च। प्र मंहिष्थायोदप्रुतोऽच्छाम इन्द्रम्॥ आ. ६-१-। इति॥

उदप्रुत उदकस्योद्गमयितारो वयह् पक्षिणः पक्वात्सस्याद्रक्षमाणाः कृषीवलाः। न उपमार्थे। यथा शब्दायन्ते। यथा च वावदतः पुनः पुनः शब्दाय मानस्याभ्रियस्येवाभ्रसमूहस्य घोषाः शब्दा यथा भवन्ति। किञ्चगि रिभ्रजो गिरिभ्यो मेघेभ्यो भ्रष्टा निर्गता उर्मयोऽप्समूहा यथा मदन्तः शब्दायमाना भवन्ति। तथार्क अर्चकाः स्तोतारो बृहस्पतिमभ्यनावन्। अभिष्तुवन्ति। नु स्तवने॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७