मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् २

संहिता

सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥

पदपाठः

सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ ।
जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥

सायणभाष्यम्

आङ्गिरसोऽङ्गिरसः पुत्रो नक्शमाणः स्वतेजसा व्याप्नुवन् भग इवेद्भगो देव इव स्थितो बृहस्पतिरेवार्यर्मणं स्तुतेः प्रेरकं स्तोतारं गोभिः सह संनिनाय। नयति। संयोजयति। मित्रो न मित्रो यथा जने जनपदे स्वरश्मीन्संयोजयति तद्वद्दंपती जायापती अनक्ति। सङ्गमयति। स्वसामर्थ्यं तत्र स्थापयतीत्यर्थः। हे बृहस्पते आशून्व्याप्तान्स्वरश्मीन्वाजय। तव स्तोतृषु गमय। स्थापय। आशूनिव व्याप्तानश्वानाजौ सङ्ग्रामे योद्धारो यथा सङ्गमयन्ति तद्वत्॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७