मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् ४

संहिता

आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥

पदपाठः

आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः । उ॒ल्काम्ऽइ॑व । द्योः ।
बृह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ । उ॒द्नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥

सायणभाष्यम्

मधुनोदकेनापुर्षायन् पृथिवीमाभिमुख्येन सिञ्चन्। प्रुष प्लुश स्नेहनसेचनपूरणेषु। व्यत्ययेन विकरणस्य शायजादेशः। ऋतस्योदकस्य योनिं मेघमवक्षिपन् व्रुष्त्यर्थमवकिरन्नर्कोऽर्चनीयो बृहस्पतिर्द्योर्द्युलोकादुल्कामिमिवोल्कां यथोद्धरति तद्वदश्मनः शिलोच्चयाद्वलेनाधिष्थिताद्गाः पणिभिरपहृतान्पशूनुद्धरन्नूर्ध्वं गमयन्भूम्यास्त्वचं तेषां शफैर्वि बिभेद। विभिन्नामकार्षीत्। सर्वत्र गा वितता अकार्षीदित्यर्थः। तत्र दृष्टान्तः। उद्नेव यथा वृआह्ट्युदकेन पर्जन्यो भूमित्वचं विभिनत्ति तद्वत्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७