मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६८, ऋक् ६

संहिता

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥

पदपाठः

य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः ।
द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥

सायणभाष्यम्

पीयतः। पीयतिर्हिंसाकर्मा। हिम्सकस्य वलस्य जसुमायुधं यदा यस्मिन्काले भेत् भिनत्ति। केन साधनेन। अग्नितपोभिरग्निवत्तपनशीलैरर्कैरर्चनीयै रश्मिभिः अपि वा मन्त्रैर्जनत्ति। किञ्च दद्भिः। पद्दन्नोमासित्यादिना दन्तशब्दस्य दद्भावः। यथा दन्तैः परिविष्टं भक्ष्यं जिह्वा भक्षयति तद्वत्स परिविष्टं पर्वते पणिभिः परिवृतं वलनामानं यदादत् अभक्षयत् अवधीत् तदानीं तैरपहृतानामुस्रियाणां गवां निधीनाविरकृणोत्। आविर्भूतमकरोत्॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७